|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.24. अध्यायः 024
Mahabharata - Drona Parva - Chapter Topics
धृतराष्ट्रेण पुत्रान्प्रति शोचनपूर्वकं सञ्जयम्प्रति युद्धकथनचोदना॥ 1 ॥
Mahabharata - Drona Parva - Chapter Text

धृतराष्ट्र उवाच। 7-24-0x(4318)(45775)
व्यथयेयुरिमे सेनां देवानामपि सञ्जय।
आहवे ये न्यवर्तन्त वृकोदरमुखा नृपाः॥ 7-24-1(45776)
सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः।
तस्मिन्नेव च सर्वार्थाः प्रदृश्यन्ते पृथग्विधाः॥ 7-24-2(45777)
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी।
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः॥ 7-24-3(45778)
स एव महतीं सेनां समावर्तयदाहवे।
किमन्यद्दैवसंयोगान्मम पुत्राभवाय च॥ 7-24-4(45779)
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः।
स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति॥ 7-24-5(45780)
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः।
स पुनर्भागधेयेन सहायानुपलब्धवान्॥ 7-24-6(45781)
अर्थे मे केकया लब्धाः काशिका कोसलाश्चये।
चेदीनां चार्धमपरे मामे व समुपाश्रिताः॥ 7-24-7(45782)
पृथिवी भूयसी तात मम पार्थस्य नो तथा।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा॥ 7-24-8(45783)
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः।
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः॥ 7-24-9(45784)
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम्।
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान्॥ 7-24-10(45785)
समनुप्राप्तकृच्छ्रोऽहं मोहं परममागतः।
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे॥ 7-24-11(45786)
यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम्।
दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह॥ 7-24-12(45787)
नृशंसं तु परं तात त्यक्त्वा दुर्योधनं यदि।
पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत्॥ 7-24-13(45788)
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः।
सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति॥ 7-24-14(45789)
अद्य चाप्यस्य राष्ट्रस्य कृतोच्छेदस्य सञ्जय।
अवशेषं न पश्यामि ककुदे मृदिते सति॥ 7-24-15(45790)
कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः।
यौ नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ॥ 7-24-16(45791)
व्यक्तमेव च मे शंस यथा युद्धमवर्तत।
केऽयुध्यन्के व्यपाकुर्वन्के क्षुद्राः प्राद्रवन्भयात्॥ 7-24-17(45792)
धनुञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः।
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात्॥ 7-24-18(45793)
यथाऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय।
मम सैन्यावशेषस्य सन्निपातः सुदारुणः॥ 7-24-19(45794)
कथं च वो मनस्तात निवृत्तेष्वभवत्तदा।
मामकानां च ये शूराः के कांस्तत्र न्यवारयन्॥ ॥ 7-24-20(45795)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि चतुर्विंशोऽध्यायः॥ 24 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-24-2 संप्रयुक्तः सम्बद्धः। भवति उत्पद्यते। तस्मिन् दिष्ट एव॥ 5-24-18 भ्रातृव्यादमित्रात्॥ 5-24-24 चतुर्विशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|